वांछित मन्त्र चुनें

यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृध॑: । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥

अंग्रेज़ी लिप्यंतरण

yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ | pred u havyāni vocati devebhyaś ca pitṛbhya ā ||

पद पाठ

यः । अ॒ग्निः । क्र॒व्य॒ऽवाह॑नः । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ । प्र । इत् । ऊँ॒ इति॑ । ह॒व्यानि॑ । वो॒च॒ति॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृऽभ्यः॑ । आ ॥ १०.१६.११

ऋग्वेद » मण्डल:10» सूक्त:16» मन्त्र:11 | अष्टक:7» अध्याय:6» वर्ग:22» मन्त्र:1 | मण्डल:10» अनुवाक:1» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः क्रव्यवाहनः-अग्निः ऋतावृधः पितॄन्-यक्षत्-इत्-उ-देवेभ्यः-च पितृभ्यः-आ हव्यानि प्रवोचति) जो शवमांस की वोढा अग्नि यज्ञवर्धक सूर्यरश्मियों से सङ्गत होती है, वही अग्नि इस समय आहुतियुक्त चमस से देवों दिव्यगुणयुक्त पदार्थों और पूर्वोक्त सूर्यरश्मियों के लिये भी हव्यों का उच्चारण अर्थात् शवमांस के चटपटा शब्द के स्थान में घृतादि हव्य की सरसर ध्वनि करती है ॥११॥
भावार्थभाषाः - शवाग्नि में घृतादि हव्य डालने से शवमांस के चटपटा शब्द को भी दबाकर हव्य की सरसर ध्वनि के साथ उक्त अग्नि देवयज्ञ और पितृयज्ञ के रूप को धारण कर लेती है ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः क्रव्यवाहनः अग्निः ऋतावृधः पितॄन्-यक्षत्-इत्-उ-देवेभ्यः-च पितृभ्यः-आ हव्यानि प्रवोचति) यः शवमांसस्य वोढाऽग्निः “क्रव्ये च” [अष्टा०३।२।६९] इति योगविभागात् क्रव्योपपदे वहधातोर्ञ्युट्। ऋतावृधः-ऋतस्य यज्ञस्य वर्धयितॄन् “ऋतावृधो यज्ञवृधः” [निरु०१२।१३] पितॄन्-सूर्यरश्मीन् जयेत्-सङ्गतो भवेत्, “सङ्गतिकरणमत्र यज्ञार्थः”। स एवाग्निरिदु-इदानीं तु-आहुतियुक्तचमसेन देवेभ्यः-दिव्यगुणेभ्यश्च पितृभ्यश्च पूर्वोक्तेभ्यः, ‘आकारः समुच्चयार्थः’। “एतस्मिन्नेवार्थे (समुच्चयार्थे) देवेभ्यश्च पितृभ्य एत्याकारः” [निरु०१।४] हव्यानि प्रवोचति प्रवदति, ‘लडर्थे लेट्’। शवमांसचटचटास्थानेऽधुना हव्य-सरसरशब्दं करोति-इत्यर्थः ॥११॥